|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.128. अध्यायः 128
Mahabharata - Drona Parva - Chapter Topics
पुनर्द्रोणरथान्भङ्क्त्वा गच्छतो भीमस्यार्जुनदर्शनेन सिंहनादः॥ 1 ॥ तच्छ्रवणेन युधिष्ठिरस्य हर्षोदयः॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-128-0x(4590)(50276)
समुत्तीर्णं रथानीकं पाण्डवं विहसन्रणे।
विवारयिषुराचार्यः शरवर्षैरवाकिरत्॥ 7-128-1(50277)
पिबन्निव शरौघांस्तान्द्रोणचापपरिच्युतान्।
सोऽभ्यद्रवत सोदर्यान्मोहयन्बलमायया॥ 7-128-2(50278)
तं मृधे वेगमास्थाय परं परमधन्विनः।
चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन्॥ 7-128-3(50279)
स तैस्तु संवृतो भीमः क्रोधेन प्रदहन्निव।
उद्यच्छन्स गदां तेभ्यः सुघोरां सिंहवन्नदन्।
अवासृजच्च वेगेन शत्रुपक्षविनाशिनीम्॥ 7-128-4(50280)
इन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना।
प्रामथ्नात्सा महाराज सैनिकांस्तव संयुगे॥ 7-128-5(50281)
घोषेण महता राजन्पूरयन्तीव मेदिनीम्।
ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान्॥ 7-128-6(50282)
तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम्।
प्राद्रवंस्तावकाः सर्वे नदन्तो बैरवान्रवान्॥ 7-128-7(50283)
सिंहनादमसह्यं हि श्रुत्वा भीमस्य संयुगे।
प्रापतन्मुनुजास्त्रस्ता रथेभ्यो रथिनस्तदा॥ 7-128-8(50284)
ते हन्यमाना भीमेन गदाहस्तेन तावकाः।
प्राद्रवन्त रणे भीता व्याघ्रघ्राता मृगा इव॥ 7-128-9(50285)
स तान्विद्राव्य कौन्तेयः सङ्ख्येऽमित्रान्दुरासदान्।
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम्॥ 7-128-10(50286)
तथा तु विप्रकुर्वाणं रथयूथपयूथपम्।
भारद्वाजो महाराज भीमसेनं समभ्ययात्॥ 7-128-11(50287)
भीमं तु समरे द्रोणो वारयित्वा शरोर्मिभिः।
अकरोत्सहसा नादं षाण्डूनां भयमादधत्॥ 7-128-12(50288)
तद्युद्धमासीत्सुमहद्धोरं देवासुरोपमम्।
द्रोणस्य च महाराज भीमस्य च महात्मनः॥ 7-128-13(50289)
यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः।
वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः॥ 7-128-14(50290)
ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः।
निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात्॥ 7-128-15(50291)
अंसे शिरो भीमसेनः करौ कृत्वोरसि स्थिरौ।
वेगमास्थाय बलवान्मनोनिलगरुत्मताम्॥ 7-128-16(50292)
यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया।
तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत्॥ 7-128-17(50293)
स वध्यमानः समरे रथं द्रोणस्य मारिष।
ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः॥ 7-128-18(50294)
द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे।
`ददृशे तावकैर्योधैर्विस्मयोत्फुल्ललोचनैः।
परिहृत्य रथं द्रोणश्चूर्णितं तं महीतले'॥ 7-128-19(50295)
रथमन्यं समारुह्य व्यूहद्वारं ययौ पुनः।
तमायान्तं तथा दृष्ट्वा भग्नोत्साहं गुरुं तदा॥ 7-128-20(50296)
गत्वा वेगात्पुनर्भीमो धुरं गृह्य रथस्य तु।
तमप्यतिरथं भीमश्चिक्षेप भृशरोषितः॥ 7-128-21(50297)
एवमष्टौ रथाः क्षिप्ता भीमसेनेन लीलया॥ 7-128-22(50298)
व्यदृश्यत निमेषेण पुनः स्वरथमास्थितः।
दृश्यते तावकैर्योधैर्विस्मयोत्फुल्ललोचनैः॥ 7-128-23(50299)
तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत्।
भीमसेनस्य कौरव्य तदद्भुतमिवाभवत्॥ 7-128-24(50300)
ततः स्वरथमास्थाय भीमसेनो महाबलः।
अभ्यद्रवत वेगेन तव पुत्रस्य वाहिनीम्॥ 7-128-25(50301)
स मृद्गन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः।
अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव॥ 7-128-26(50302)
भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम्।
प्रमथ्य तरसा वीरस्तदप्यतिबलोऽभ्ययात्॥ 7-128-27(50303)
सन्त्रासयन्ननीकानि तलशब्देन पाण्डवः।
अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान्॥ 7-128-28(50304)
भोजानीकमतिक्रम्य दरदानां च वाहिनीम्।
तथा म्लेच्छगणानन्यान्बहून्युद्धविशारदान्॥ 7-128-29(50305)
सात्यकिं चैव सम्प्रेक्ष्य युध्यमानं महारथम्।
रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा॥ 7-128-30(50306)
भीमसेनो महाराज द्रष्टुकामो धनञ्जयम्।
अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः॥ 7-128-31(50307)
सोऽपश्यदर्जुनं तत्र युध्यमानं महारथम्।
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी॥ 7-128-32(50308)
तं दृष्ट्वा पुरुषव्याघ्रश्चुक्रोश महतो रवान्।
प्रावृट्काले महाराज नर्दन्निव बलाहकः॥ 7-128-33(50309)
तं तस्य निनदं घोरं पार्थः शुश्राव नर्दतः।
वासुदेवश्च कौरव्य भीमसेनस्य संयुगे॥ 7-128-34(50310)
तौ श्रुत्वा युगपद्वीरौ निनदं तस्य शुष्मिणः।
पुनः पुनः प्राणदतां दिदृक्षन्तौ वृकोदरम्॥ 7-128-35(50311)
ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह।
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव॥ 7-128-36(50312)
भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः।
अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः॥ 7-128-37(50313)
विशोकश्चाभवद्राजा श्रुत्वा तं निनदं तयोः।
धनञ्जयस्य समरे जयमाशास्तवान्विभिः॥ 7-128-38(50314)
तथा तु नर्दमाने वै भीमसेने मदोत्कटे।
स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः॥ 7-128-39(50315)
हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः।
दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा॥ 7-128-40(50316)
न हि तेषां जयो युद्धे येषां द्वेष्टाऽसि पाण्डव।
दिष्ट्या जीवति सङ्ग्रमे सव्यसाची धनञ्जयः॥ 7-128-41(50317)
दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः।
दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जयौ॥ 7-128-42(50318)
येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः।
स हन्ता द्विषतां सङ्ख्ये दिष्ट्या जीवति फल्गुनः॥ 7-128-43(50319)
यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः।
स हन्ता रि पुसैन्यानां दिष्ट्या जीवति फल्गुनः॥ 7-128-44(50320)
निवातकवचा येन देवैरपि सुदुर्जयाः।
निर्जिता धनुषैकेन दिष्ट्या पार्थः स जीवति॥ 7-128-45(50321)
कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान्।
योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति॥ 7-128-46(50322)
कालकेयसहस्राणि चतुर्दश महारणे।
योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति॥ 7-128-47(50323)
गन्धर्वराजं बलिनं दुर्योधनकृते च वै।
जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति॥ 7-128-48(50324)
किरीटमाली बलवाञ्छेताश्वः कृष्णसारथिः।
मम प्रियश्च सततं दिष्ट्या पार्थः स जीवति॥ 7-128-49(50325)
पुत्रशोकाभिसन्तप्तश्चिकीर्षन्कर्म दुष्करम्।
जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः।
कच्चित्स सैन्धवं सङ्ख्ये हनिष्यति धनञ्जयः॥ 7-128-50(50326)
कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम्।
अनस्तमित आदित्ये समेष्याम्यहमर्जुनम्॥ 7-128-51(50327)
कच्चित्सैन्धवको राजा दुर्योधनहिते रतः।
नन्दयिष्यत्यमित्रान्हि फल्गुनेन निपातितः॥ 7-128-52(50328)
कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम्।
दृष्ट्वा सैन्धवकं सङ्ख्ये शममस्मासु धास्यति॥ 7-128-53(50329)
दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे।
कच्चिद्दुर्योधनो मन्दः शममस्मासु यास्यति॥ 7-128-54(50330)
दृष्ट्वा चान्यान्महायोधान्पातितान्धरणीतले।
कच्चिद्दुर्योधनो मन्दः पश्चात्तापं गमिष्यति॥ 7-128-55(50331)
शेषस्य रक्षणार्थं च सन्धास्यति सुयोधनः॥
एवं बहुविधं तस्य राज्ञश्चिन्तयतस्तदा। 7-128-56(50332)
कृपयाऽभिपरीतस्य घोरं युद्धमवर्तत॥ ॥ 7-128-57(50333)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे अष्टाविंशत्यधिकशततमोऽध्यायः॥ 128 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-128-24 भीमसेनस्य कमेन्ति शेषः॥ 5-128-128 अष्टाविंशत्यधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|